|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.73. अध्यायः 073
Mahabharata - Adi Parva - Chapter Topics
शुक्रदेवयानीसंवादः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
शुक्र उवाच। 1-73-0x(379)(3338)
यः परेषां नरो नित्यमतिवादांस्तितिक्षते।
देवयानि विजानीहि तेन सर्वमिदं जितम्॥ 1-73-1(3339)
यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा।
स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते॥ 1-73-2(3340)
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति।
देवयानि विजानीहि तेन सर्वमिदं जितम्॥ 1-73-3(3341)
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते॥ 1-73-4(3342)
यः संधारयते मन्युं योऽतिवादांस्तितिक्षते।
यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्॥ 1-73-5(3343)
यो यजेदपरिश्रान्तो मासिमासि शतं समाः।
न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः॥ 1-73-6(3344)
`तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ।
क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च॥ 1-73-7(3345)
तस्मादक्रोधने यज्ञतपोदानफलं महत्।
भवेदसंशयं भद्रे नेतरस्मिन्कदाचन॥ 1-73-8(3346)
न यतिर्न तपस्वी च न यज्वा न च धर्मभाक्।
क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च॥ 1-73-9(3347)
पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता।
तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम्॥ 1-73-10(3348)
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः।
न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम्॥ 1-73-11(3349)
देवयान्युवाच। 1-73-12x(380)
वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम्।
अक्रोधे चातिवादे च वेद चापि बलाबलम्॥ 1-73-12(3350)
`स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः।'
शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता॥ 1-73-13(3351)
`प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः।'
तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते॥ 1-73-14(3352)
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च।
न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु॥ 1-73-15(3353)
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा।
तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते॥ 1-73-16(3354)
`सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः।
दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च॥ 1-73-17(3355)
नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना।
धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः॥ 1-73-18(3356)
अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते।
साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत्॥ 1-73-19(3357)
सुकृते दुष्कृते वापि यत्र सज्जति यो नरः।
ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत्॥' 1-73-20(3358)
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः।
मम मथ्नाति हृदयमग्निकाम इवारणिम्॥ 1-73-21(3359)
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु।
यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते॥ 1-73-22(3360)
मरणं शोभनं तस्य इति विद्वज्जना विदुः।
`अवमानमवाप्नोति शनैर्नीचसमागमात्॥ 1-73-23(3361)
अतिवादा वक्त्रतो निःसरन्ति
यैराहतः शोचति रात्र्यहानि।
परस्य वै मर्मसु ते पतन्ति
तस्माद्धीरो नैव मुच्येत्परेषु॥ 1-73-24(3362)
निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना।
वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम्॥ 1-73-25(3363)
संरोहित शरैर्विद्धं नवं परशुना हतम्।
वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम्'॥ ॥ 1-73-26(3364)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्रिसप्ततितमोऽध्यायः॥ 73 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-73-2 रश्मिषु क्रोधफलभूतास्वापत्सु। पक्षे स्पष्टोऽर्थः॥ 1-73-3 अक्रोधेन क्रोधविरोधिना सहनेन॥ त्रिसप्ततितमोऽध्यायः॥ 73 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|